ॐ श्री गणेशाय नमः
|श्रीशिवसहस्रनामस्तोत्र वायुपुराणे अध्याय ३० ||
||दक्ष उवाच ||
नमस्ते देवदेवेश देवारिबलसूदन |
देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ||३०. १८०||
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय |
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः |
सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ||३०. १८१||
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय |
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ||३०. १८२||
शतोदर शतावर्त्त शतजिह्व शतानन |
गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ||३०. १८३||
देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः |
मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ||३०. १८४||
सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते |
शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ||३०. १८५||
आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम् |
क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च ||३०. १८६||
असच्च सदसच्चैव तथैव प्रभवाव्ययम् |
नमो भवाय शर्वाय रुद्राय वरदाय च ||३०. १८७||
पशूनां पतये चैव नमस्त्वन्धकघातिने |
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ||३०. १८८||
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः |
नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ||३०. १८९||
दण्डि मासक्तकर्णाय दण्डिमुण्डाय वै नमः |
नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ||३०. १९०||
विलोहिताय धूम्राय नीलग्रीवाय ते नमः |
नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ||३०. १९१||
सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने |
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ||३०. १९२||
नमो हिरण्यगर्भाय हिरण्यकवचाय च |
हिरण्यकृतचूडाय हिरण्यपतये नमः ||३०. १९३||
सत्रघाताय दण्डाय वर्णपानपुटाय च |
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ||३०. १९४||
सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने |
नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ||३०. १९५||
नमो नमाय नम्याय नमः किलिकिलाय च |
नमस्ते शयमानाय शयितायोत्थिताय च ||३०. १९६||
स्थिताय चलमानाय मुद्राय कुटिलाय च |
नमो नर्त्तनशीलाय मुखवादित्रकारिणे ||३०. १९७||
नाट्योपहारलुब्धाय गीतवाद्यरताय च |
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ||३०. १९८||
कलनाय च कल्पाय क्षयायोपक्षयाय च |
भीमदुन्दुभिहासाय भीमसेनप्रियाय च ||३०. १९९||
उग्राय च नमो नित्यं नमस्ते दशबाहवे |
नमः कपालहस्ताय चिताभस्मप्रियाय च ||३०. २००||
विभीषणाय भीष्माय भीष्मव्रतधराय च |
नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे ||३०. २०१||
पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च |
नमो वृषाय वृष्याय वृष्णये वृषणाय च ||३०. २०२||
कटङ्कटाय चण्डाय नमः सावयवाय च |
नमस्ते वरकृष्णाय वराय वरदाय च ||३०. २०३||
वरगन्धमाल्यवस्त्राय वरातिवरये नमः |
नमो वर्षाय वाताय छायायै आतपाय च ||३०. २०४||
नमो रक्तविरक्ताय शोभनायाक्षमालिने |
सम्भिन्नाय विभिन्नाय विविक्तविकटाय च ||३०. २०५||
अघोररूपरूपाय घोरघोरतराय च |
नमः शिवाय शान्ताय नमः शान्ततराय च ||३०. २०६||
एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते |
नमो वृद्धाय लुब्धाय संविभागप्रियाय च ||३०. २०७||
पञ्चमालार्चिताङ्गाय नमः पाशुपताय च |
नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ||३०. २०८||
सहस्रशतघण्टाय घण्टामालाप्रियाय च |
प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ||३०. २०९||
हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च |
नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ||३०. २१०||
गर्भमांसशृगालाय तारकाय तराय च |
नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ||३०. २११||
यज्ञवाहाय दानाय तप्याय तपनाय च |
नमस्तटाय भव्याय तडितां पतये नमः ||३०. २१२||
अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च |
नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ||३०. २१३||
सहस्रोद्यतशूलाय सहस्रनयनाय च |
नमोऽस्तु बालरूपाय बालरूपधराय च ||३०. २१४||
बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च |
नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ||३०. २१५||
तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः |
नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ||३०. २१६||
वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने |
नमो घोषाय घोष्याय नमः कलकलाय च ||३०. २१७||
श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च |
धर्मार्थ काममोक्षाय क्रथाय कथनाय च ||३०. २१८||
साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः |
नमो रथ्यविरथ्याय चतुष्पथरताय च ||३०. २१९||
कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने |
ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते |
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ||३०. २२०||
काम कामद कामध्न धृष्टोदृप्तनिषूदन |
सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ||३०. २२१||
महाबाल महाबाहो महासत्त्व महाद्युते |
महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ||३०. २२२||
स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे |
दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे |
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ||३०. २२३||
उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज |
चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ||३०. २२४||
त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि |
अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ||३०. २२५||
जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च |
त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ||३०. २२६ |
चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च |
त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ||३०. २२७||
सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः |
ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ||३०. २२८||
हविर्हावी हवो हावी हुवां वाचाहुतिः सदा |
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ||३०. २२९||
यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा |
पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ||३०. २३०||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये |
त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ||३०. २३१||
संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च |
कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ||३०. २३२||
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च |
सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ||३०. २३३||
क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च |
वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ||३०. २३४||
इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः |
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ||३०. २३५||
त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा |
छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ||३०. २३६||
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च |
इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ||३०. २३७||
लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः |
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ||३०. २३८||
आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च |
हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ||३०. २३९||
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा |
सुवर्णरेता विख्यातः सुवर्णश्चाप्यतो मतः ||३०. २४०||
सुवर्णनामा च तथा सुवर्णप्रिय एव च |
त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ||३०. २४१||
उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च |
होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ||३०. २४२||
सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम् |
पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ||३०. २४३||
गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च |
सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ||३०. २४४||
प्राणोऽपानः समानश्च उदानो व्यान एव च |
उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ||३०. २४५||
लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः |
शुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः ||३०. २४६||
गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः |
मत्स्यो जली जलो जल्यो जवः कालः कली कलः ||३०. २४७||
विकालश्च सुकालश्च दुष्कालः कलनाशनः |
मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ||३०. २४८||
संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ |
घटो घटीको घण्टीको चूडालोलबलो बलम् ||३०. २४९||
ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक् |
चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ||३०. २५०||
चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह |
क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ||३०. २५१||
रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः |
शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ||३०. २५२||
भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः |
गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ||३०. २५३||
तरणस्तारकश्चैव सर्वभूतसुतारणः |
धाता विधाता सत्वानां निधाता धारणो धरः ||३०. २५४||
तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् |
भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ||३०. २५५||
भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः |
ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ||३०. २५६||
ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते |
कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ||३०. २५७||
मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः |
चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ||३०. २५८||
हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् |
अधर्महा महादण्डो दण्डधारी रणप्रियः ||३०. २५९||
गोतमो गोप्रतारश्च गोवृषेश्वरवाहनः |
धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ||३०. २६०||
त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च |
तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ||३०. २६१||
दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः |
दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ||३०. २६२||
शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् |
आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ||३०. २६३||
सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः |
शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ||३०. २६४||
दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः |
विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ||३०. २६५||
मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः |
वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ||३०. २६६||
वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः |
चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः |
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ||३०. २६७||
न ब्रह्मा न च गोविन्दः पुराणऋषयो न च |
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ||३०. २६८||
या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् |
ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ||३०. २६९||
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ||
भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ||३०. २७०||
यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः |
तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ||३०. २७१||
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः |
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ||३०. २७२||
सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते |
यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ||३०. २७३||
प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि |
ग्रसत्यर्कञ्च स्वर्भानुर्भूत्वा सोमाग्निरेव च ||३०. २७४||
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् |
रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ||३०. २७५||
ये चाप्युत्पतिता गर्भादधोभागगताश्च ये |
तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ||३०. २७६||
ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च |
हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ||३०. २७७||
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च |
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ||३०. २७८||
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च |
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ||३०. २७९||
रसातलगता ये च ये च तस्मात्परङ्गताः |
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः |
सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ||३०. २८०||
सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान् |
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ||३०. २८१||
त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः |
त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ||३०. २८२||
अथ वा मायया देव मोहितः सूक्ष्मया त्वया |
एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ||३०. २८३||
प्रसीद मम देवेश त्वमेव शरणं मम |
त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ||३०. २८४||
स्तुत्वैवं स महादेवं विरराम प्रजापतिः |
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ||३०. २८५||
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत |
बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ||३०. २८६||
अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः |
कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ||३०. २८७||
दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति |
अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ||३०. २८८||
भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत |
प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः शृणु ||३०. २८९||
अश्वमेधसहस्रस्य वाजपेयशतस्य च |
प्रजापते मत्प्रसादात् फलभागी भविष्यसि ||३०. २९०||
वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः |
तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ||३०. २९१||
अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम् |
वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ||३०. २९२||
श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम् |
सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम् |
उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ||३०. २९३||
अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम् |
तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ||३०. २९४||
एवमुक्त्वा महादेवः सपत्नीकः सहानुगः |
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ||३०. २९५||
अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः |
ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा |
शान्त्यर्थं सर्वभूतानां शृणुध्वं तत्र वै द्विजाः ||३०. २९६||
शीर्षाभितापो नागानां पर्वतानां शिलारुजः |
अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ||३०. २९७||
स्वौरकः सौरभेयाणामूषरः पृथिवीतले |
इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ||३०. २९८||
रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम् |
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ||३०. २९९||
अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् |
शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः |
शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ||३०. ३००||
मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः |
मरणे जन्मनि तथा मध्ये च विशते सदा ||३०. ३०१||
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः |
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ||३०. ३०२||
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः |
विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ||३०. ३०३||
दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः शृणोति वा |
नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ||३०. ३०४||
यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः |
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ||३०. ३०५||
यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः |
स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ||३०. ३०६||
व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः |
राजकार्यनियुक्तो वा मुच्यते महतो भयात् ||३०. ३०७||
अनेन चैव देहेन गणानां स गणाधिपः |
इह लोके सुखं प्राप्य गण एवोपपद्यते ||३०. ३०८||
न च यक्षाः पिशाचा वा न नागा न विनायकाः |
कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ||३०. ३०९||
शृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी |
पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ||३०. ३१०||
शृणुयाद्वा इदं सर्वं कीर्त्तयेद्वाप्यभीक्ष्णशः |
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ||३०. ३११||
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् |
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ||३०. ३१२||
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु |
बलिं विभवतः कृत्वा दमेन नियमेन च ||३०. ३१३||
ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् |
ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः |
मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ||३०. ३१४||
सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः |
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते |
मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ||३०. ३१५||
वृषेव विधियुक्तेन विमानेन विराजते |
आभूतसंप्लवस्थायी रुद्रस्यानुचरो भवेत् ||३०. ३१६||
इत्याह भगवान् व्यासः पराशरसुतः प्रभुः |
नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ||३०. ३१७||
श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः |
वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ||३०. ३१८||
श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु |
रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ||३०. ३१९||
इति श्रीमहापुराणे वायुप्रोक्ते दक्षशापवर्णनं नाम त्रिंशोऽध्यायः ||३०||
ௐ ஶ்ரீ க₃ணேஶாய நம:
| ஶ்ரீஶிவஸஹஸ்ரனாமஸ்தோத்ர வாயுபுராணே அத்₄யாய 30 ||
நமஸ்தே தே₃வதே₃வேஶ தே₃வாரிப₃லஸூத₃ன |
தே₃வேந்த்₃ர ஹ்யமரஶ்ரேஷ்ட₂ தே₃வதா₃னவபூஜித || 30. 180||
ஸஹஸ்ராக்ஷ விரூபாக்ஷ த்ர்யக்ஷ யக்ஷாதி₄பப்ரிய |
ஸர்வத: பாணிபாத₃ஸ்த்வம்ʼ ஸர்வதோ(அ)க்ஷிஶிரோமுக₂: |
ஸர்வத: ஶ்ருதிமான் லோகே ஸர்வானாவ்ருʼத்ய திஷ்ட₂ஸி || 30. 181||
ஶங்குகர்ண மஹாகர்ண கும்ப₄கர்ணார்ணவாலய |
க₃ஜேந்த்₃ரகர்ண கோ₃கர்ண பாணிகர்ண நமோ(அ)ஸ்து தே || 30. 182||
ஶதோத₃ர ஶதாவர்த்த ஶதஜிஹ்வ ஶதானன |
கா₃யந்தி த்வாம்ʼ கா₃யத்ரிணோ ஹ்யர்ச்சயந்தி ததா₂ர்ச்சின: || 30. 183||
தே₃வதா₃னவகோ₃ப்தா ச ப்₃ரஹ்மா ச த்வம்ʼ ஶதக்ரது: |
மூர்த்தீஶஸ்த்வம்ʼ மஹாமூர்தே ஸமுத்₃ராம்பு₃ த₄ராய ச || 30. 184||
ஸர்வா ஹ்யஸ்மின் தே₃வதாஸ்தே கா₃வோ கோ₃ஷ்ட₂ இவாஸதே |
ஶரீரந்தே ப்ரபஶ்யாமி ஸோமமக்₃னிம்ʼ ஜலேஶ்வரம் || 30. 185||
ஆதி₃த்யமத₂ விஷ்ணுஞ்ச ப்₃ரஹ்மாணம்ʼ ஸப்₃ருʼஹஸ்பதிம் |
க்ரியா கார்ய்யம்ʼ காரணஞ்ச கர்த்தா கரணமேவ ச || 30. 186||
அஸச்ச ஸத₃ஸச்சைவ ததை₂வ ப்ரப₄வாவ்யயம் |
நமோ ப₄வாய ஶர்வாய ருத்₃ராய வரதா₃ய ச || 30. 187||
பஶூனாம்ʼ பதயே சைவ நமஸ்த்வந்த₄ககா₄தினே |
த்ரிஜடாய த்ரிஶீர்ஷாய த்ரிஶூலவரதா₄ரிணே || 30. 188||
த்ர்யம்ப₃காய த்ரினேத்ராய த்ரிபுரக்₄னாய வை நம: |
நமஶ்சண்டா₃ய முண்டா₃ய ப்ரசண்டா₃ய த₄ராய ச || 30. 189||
த₃ண்டி₃ மாஸக்தகர்ணாய த₃ண்டி₃முண்டா₃ய வை நம: |
நமோ(அ)ர்த்₃த₄த₃ண்ட₃கேஶாய நிஷ்காய விக்ருʼதாய ச || 30. 190||
விலோஹிதாய தூ₄ம்ராய நீலக்₃ரீவாய தே நம: |
நமஸ்த்வப்ரதிரூபாய ஶிவாய ச நமோ(அ)ஸ்து தே || 30. 191||
ஸூர்ய்யாய ஸூர்ய்யபதயே ஸூர்ய்யத்₄வஜபதாகினே |
நம: ப்ரமத₂னாதா₂ய வ்ருʼஷஸ்கந்தா₄ய த₄ன்வினே || 30. 192||
நமோ ஹிரண்யக₃ர்பா₄ய ஹிரண்யகவசாய ச |
ஹிரண்யக்ருʼதசூடா₃ய ஹிரண்யபதயே நம: || 30. 193||
ஸத்ரகா₄தாய த₃ண்டா₃ய வர்ணபானபுடாய ச |
நம: ஸ்துதாய ஸ்துத்யாய ஸ்தூயமானாய வை நம: || 30. 194||
ஸர்வாயாப₄க்ஷ்யப₄க்ஷ்யாய ஸர்வபூ₄தாந்த்தராத்மனே |
நமோ ஹோத்ராய மந்த்ராய ஶுக்லத்₄வஜபதாகினே || 30. 195||
நமோ நமாய நம்யாய நம: கிலிகிலாய ச |
நமஸ்தே ஶயமானாய ஶயிதாயோத்தி₂தாய ச || 30. 196||
ஸ்தி₂தாய சலமானாய முத்₃ராய குடிலாய ச |
நமோ நர்த்தனஶீலாய முக₂வாதி₃த்ரகாரிணே || 30. 197||
நாட்யோப-ஹார-லுப்₃தா₄ய கீ₃த-வாத்₃ய-ரதாய ச |
நமோ ஜ்யேஷ்டா₂ய ஶ்ரேஷ்டா₂ய ப₃லப்ரமத₂னாய ச || 30. 198||
கலனாய ச கல்பாய க்ஷயாயோபக்ஷயாய ச |
பீ₄மது₃ந்து₃பி₄ஹாஸாய பீ₄மஸேனப்ரியாய ச || 30. 199||
உக்₃ராய ச நமோ நித்யம்ʼ நமஸ்தே த₃ஶபா₃ஹவே |
நம: கபாலஹஸ்தாய சிதாப₄ஸ்மப்ரியாய ச || 30. 200||
விபீ₄ஷணாய பீ₄ஷ்மாய பீ₄ஷ்மவ்ரதத₄ராய ச |
நமோ விக்ருʼதவக்ஷாய க₂ட்₃க₃ஜிஹ்வாக்₃ரத₃ம்ʼஷ்ட்ரிணே || 30. 201||
பக்வாமமாம்ʼஸலுப்₃தா₄ய தும்ப₃வீணாப்ரியாய ச |
நமோ வ்ருʼஷாய வ்ருʼஷ்யாய வ்ருʼஷ்ணயே வ்ருʼஷணாய ச || 30. 202||
கடங்கடாய சண்டா₃ய நம: ஸாவயவாய ச |
நமஸ்தே வரக்ருʼஷ்ணாய வராய வரதா₃ய ச || 30. 203||
வரக₃ந்த₄மால்யவஸ்த்ராய வராதிவரயே நம: |
நமோ வர்ஷாய வாதாய சா₂யாயை ஆதபாய ச || 30. 204||
நமோ ரக்தவிரக்தாய ஶோப₄னாயாக்ஷமாலினே |
ஸம்பி₄ன்னாய விபி₄ன்னாய விவிக்தவிகடாய ச || 30. 205||
அகோ₄ரரூபரூபாய கோ₄ரகோ₄ரதராய ச |
நம: ஶிவாய ஶாந்தாய நம: ஶாந்ததராய ச || 30. 206||
ஏகபாத்₃ப₃ஹுநேத்ராய ஏகஶீர்ஷன்னமோ(அ)ஸ்து தே |
நமோ வ்ருʼத்₃தா₄ய லுப்₃தா₄ய ஸம்ʼவிபா₄க₃ப்ரியாய ச || 30. 207||
பஞ்சமாலார்சிதாங்கா₃ய நம: பாஶுபதாய ச |
நமஶ்சண்டா₃ய க₄ண்டாய க₄ண்டயா ஜக்₃த₄ரந்த்₄ரிணே || 30. 208||
ஸஹஸ்ரஶதக₄ண்டாய க₄ண்டாமாலாப்ரியாய ச |
ப்ராணத₃ண்டா₃ய த்யாகா₃ய நமோ ஹிலிஹிலாய ச || 30. 209||
ஹூம்ʼஹூங்காராய பாராய ஹூம்ʼஹூங்காரப்ரியாய ச |
நமஶ்ச ஶம்ப₄வே நித்யம்ʼ கி₃ரி வ்ருʼக்ஷகலாய ச || 30. 210||
க₃ர்ப₄மாம்ʼஸஶ்ருʼகா₃லாய தாரகாய தராய ச |
நமோ யஜ்ஞாதி₄பதயே த்₃ருதாயோபத்₃ருதாய ச || 30. 211||
யஜ்ஞவாஹாய தா₃னாய தப்யாய தபனாய ச |
நமஸ்தடாய ப₄வ்யாய தடி₃தாம்ʼ பதயே நம: || 30. 212||
அன்னதா₃யான்னபதயே நமோ(அ)ஸ்த்வன்னப₄வாய ச |
நம: ஸஹஸ்ரஶீர்ஷ்ணே ச ஸஹஸ்ரசரணாய ச || 30. 213||
ஸஹஸ்ரோத்₃யதஶூலாய ஸஹஸ்ரநயனாய ச |
நமோ(அ)ஸ்து பா₃லரூபாய பா₃லரூபத₄ராய ச || 30. 214||
பா₃லானாஞ்சைவ கோ₃ப்த்ரே ச பா₃லக்ரீட₃நகாய ச |
நம: ஶுத்₃தா₄ய பு₃த்₃தா₄ய க்ஷோப₄ணாயாக்ஷதாய ச || 30. 215||
தரங்கா₃ங்கிதகேஶாய முக்தகேஶாய வை நம: |
நம: ஷட்கர்மநிஷ்டா₂ய த்ரிகர்மநிரதாய ச || 30. 216||
வர்ணாஶ்ரமாணாம்ʼ விதி₄வத் ப்ருʼத₂க்கர்மப்ரவர்தினே |
நமோ கோ₄ஷாய கோ₄ஷ்யாய நம: கலகலாய ச || 30. 217||
ஶ்வேதபிங்க₃லநேத்ராய க்ருʼஷ்ணரக்தக்ஷணாய ச |
த₄ர்மார்த₂ காமமோக்ஷாய க்ரதா₂ய கத₂னாய ச || 30. 218||
ஸாங்க்₂யாய ஸாங்க்₂யமுக்₂யாய யோகா₃தி₄பதயே நம: |
நமோ ரத்₂யவிரத்₂யாய சதுஷ்பத₂ரதாய ச || 30. 219||
க்ருʼஷ்ணா ஜினோத்தரீயாய வ்யாலயஜ்ஞோபவீதினே |
ஈஶானவஜ்ரஸம்ʼஹாய ஹரிகேஶ நமோ(அ)ஸ்து தே |
அவிவேகைகனாதா₂ய வ்யக்தாவ்யக்த நமோ(அ)ஸ்து தே || 30. 220||
காம காமத₃ காமத்₄ன த்₄ருʼஷ்டோத்₃ருʼப்தனிஷூத₃ன |
ஸர்வ ஸர்வத₃ ஸர்வஜ்ஞ ஸந்த்₄யாராக₃ நமோ(அ)ஸ்து தே || 30. 221||
மஹாபா₃ல மஹாபா₃ஹோ மஹாஸத்த்வ மஹாத்₃யுதே |
மஹாமேக₄வரப்ரேக்ஷ மஹாகால நமோ(அ)ஸ்து தே || 30. 222||
ஸ்தூ₂லஜீர்ணாங்க₃ஜடினே வல்கலாஜினதா₄ரிணே |
தீ₃ப்தஸூர்யாக்₃னிஜடினே வல்கலாஜினவாஸஸே |
ஸஹஸ்ரஸூர்யப்ரதிம தபோநித்ய நமோ(அ)ஸ்து தே || 30. 223||
உன்மாத₃னஶதாவர்த்த க₃ங்கா₃தோயார்த்₃த₄மூர்த்₃த₄ஜ |
சந்த்₃ராவர்த்த யுகா₃வர்த்த மேகா₄வர்த்த நமோ(அ)ஸ்து தே || 30. 224||
த்வமன்னமன்னகர்த்தா ச அன்னத₃ஶ்ச த்வமேவ ஹி |
அன்னஸ்ரஷ்டா ச பக்தா ச பக்வபு₄க்தபசே நம: || 30. 225||
ஜராயுஜோ(அ)ண்ட₃ஜஶ்சைவ ஸ்வேத₃ஜோத்₃பி₄ஜ்ஜ ஏவ ச |
த்வமேவ தே₃வதே₃வஶோ பூ₄தக்₃ராமஶ்சதுர்வித₄: || 30. 226 |
சராசரஸ்ய ப்₃ரஹ்மா த்வம்ʼ ப்ரதிஹர்த்தா த்வமேவ ச |
த்வமேவ ப்₃ரஹ்மவிது₃ஷாமபி ப்₃ரஹ்மவிதா₃ம்ʼ வர: || 30. 227||
ஸத்த்வஸ்ய பரமா யோனிரப்₃வாயுஜ்யோதிஷாம்ʼ நிதி₄: |
ருʼக்ஸாமானி ததோ₂ங்காரமாஹுஸ்த்வாம்ʼ ப்₃ரஹ்மவாதி₃ன: || 30. 228||
ஹவிர்ஹாவீ ஹவோ ஹாவீ ஹுவாம்ʼ வாசாஹுதி: ஸதா₃ |
கா₃யந்தி த்வாம்ʼ ஸுரஶ்ரேஷ்ட₂ ஸாமகா₃ ப்₃ரஹ்மவாதி₃ன: || 30. 229||
யஜுர்மயோ ருʼங்மயஶ்ச ஸாமாத₂ர்வமயஸ்ததா₂ |
பட்₂யஸே ப்₃ரஹ்மவித்₃பி₄ஸ்த்வம்ʼ கல்போபநிஷதா₃ம்ʼ க₃ணை: || 30. 230||
ப்₃ராஹ்மணா: க்ஷத்ரியா வைஶ்யா: ஶூத்₃ரா வர்ணாவராஶ்ச யே |
த்வாமேவ மேக₄ஸங்கா₄ஶ்ச விஶ்வஸ்த நிதக₃ர்ஜ்ஜிதம் || 30. 231||
ஸம்ʼவத்ஸரஸ்த்வம்ருʼதவோ மாஸா மாஸார்த்₃த₄மேவ ச |
கலா காஷ்டா₂ நிமேஷாஶ்ச நக்ஷத்ராணி யுகா₃ க்₃ரஹா: || 30. 232||
வ்ருʼஷாணாம்ʼ ககுத₃ம்ʼ த்வம்ʼ ஹி கி₃ரீணாம்ʼ ஶிக₂ராணி ச |
ஸிம்ʼஹோ ம்ருʼகா₃ணாம்ʼ பததாம்ʼ தார்க்ஷ்யோ(அ)நந்தஶ்ச போ₄கி₃னாம் || 30. 233||
க்ஷீரோதோ₃ ஹ்யுத₃தீ₄னாஞ்ச யந்த்ராணாம்ʼ த₄னுரேவ ச |
வஜ்ரம்ப்ரஹரணானாஞ்ச வ்ரதானாம்ʼ ஸத்யமேவ ச || 30. 234||
இச்சா₂ த்₃வேஷஶ்ச ராக₃ஶ்ச மோஹ: க்ஷாமோ த₃ம: ஶம: |
வ்யவஸாயோ த்₄ருʼதிர்லோப₄: காமக்ரோதௌ₄ ஜயாஜயௌ || 30. 235||
த்வம்ʼ க₃தீ₃ த்வம்ʼ ஶரீ சாபி க₂ட்வாங்கீ₃ ஜ₂ர்ஜ₂ரீ ததா₂ |
சே₂த்தா பே₄த்தா ப்ரஹர்த்தா ச த்வம்ʼ நேதாப்யந்தகோ மத: || 30. 236||
த₃ஶலக்ஷணஸம்ʼயுக்தோ த₄ர்மோ(அ)ர்த₂: காம ஏவ ச |
இந்த்₃ர: ஸமுத்₃ரா: ஸரித: பல்வலானி ஸராம்ʼஸி ச || 30. 237||
லதாவல்லீ த்ருʼணௌஷத்₄ய: பஶவோ ம்ருʼக₃பக்ஷிண: |
த்₃ரவ்யகர்மகு₃ணாரம்ப₄: காலபுஷ்பப₂லப்ரத₃: || 30. 238||
ஆதி₃ஶ்சாந்தஶ்ச மத்₄யஶ்ச கா₃யத்ர்யோங்கார ஏவ ச |
ஹரிதோ லோஹித: க்ருʼஷ்ணோ நீல: பீதஸ்ததா₂ருண: || 30. 239||
கத்₃ருஶ்ச கபிலஶ்சைவ கபோதோ மேசகஸ்ததா₂ |
ஸுவர்ணரேதா விக்₂யாத: ஸுவர்ணஶ்சாப்யதோ மத: || 30. 240||
ஸுவர்ணநாமா ச ததா₂ ஸுவர்ணப்ரிய ஏவ ச |
த்வமிந்த்₃ரோ(அ)த₂ யமஶ்சைவ வருணோ த₄னதோ₃(அ)நல: || 30. 241||
உத்பு₂ல்லஶ்சித்ரபா₄னுஶ்ச ஸ்வர்பா₄னுர்பா₄னுரேவ ச |
ஹோத்ரம்ʼ ஹோதா ச ஹோமஸ்த்வம்ʼ ஹுதஞ்ச ப்ரஹுதம்ʼ ப்ரபு₄: || 30. 242||
ஸுபர்ணஞ்ச ததா₂ ப்₃ரஹ்ம யஜுஷாம்ʼ ஶதருத்₃ரியம் |
பவித்ராணாம்ʼ பவித்ரம்ʼ ச மங்க₃லானாஞ்ச மங்க₃லம் || 30. 243||
கி₃ரி: ஸ்தோகஸ்ததா₂ வ்ருʼக்ஷோ ஜீவ: புத்₃க₃ல ஏவ ச |
ஸத்த்வம்ʼ த்வஞ்ச ரஜஸ்த்வஞ்ச தமஶ்ச ப்ரஜனம்ʼ ததா₂ || 30. 244||
ப்ராணோ(அ)பான: ஸமானஶ்ச உதா₃னோ வ்யான ஏவ ச |
உன்மேஷஶ்சைவ மேஷஶ்ச ததா₂ ஜ்ருʼம்பி₄தமேவ ச || 30. 245||
லோஹிதாங்கோ₃ க₃தீ₃ த₃ம்ʼஷ்ட்ரீ மஹாவக்த்ரோ மஹோத₃ர: |
ஶுசிரோமா ஹரிச்ச்₂மஶ்ருரூர்த்₃த்₄வகேஶஸ்த்ரிலோசன: || 30. 246||
கீ₃தவாதி₃த்ரன்ருʼத்யாங்கோ₃ கீ₃தவாத₃னகப்ரிய: |
மத்ஸ்யோ ஜலீ ஜலோ ஜல்யோ ஜவ: கால: கலீ கல: || 30. 247||
விகாலஶ்ச ஸுகாலஶ்ச து₃ஷ்கால: கலனாஶன: |
ம்ருʼத்யுஶ்சைவ க்ஷயோ(அ)ந்தஶ்ச க்ஷமாபாயகரோ ஹர: || 30. 248||
ஸம்ʼவர்த்தகோ(அ)ந்தகஶ்சைவ ஸம்ʼவர்த்தகப₃லாஹகௌ |
க₄டோ க₄டீகோ க₄ண்டீகோ சூடா₃லோலப₃லோ ப₃லம் || 30. 249||
ப்₃ரஹ்மகாலோ(அ)க்₃னிவக்த்ரஶ்ச த₃ண்டீ₃ முண்டீ₃ ச த₃ண்ட₃த்₄ருʼக் |
சதுர்யுக₃ஶ்சதுர்வேத₃ஶ்சதுர்ஹோத்ரஶ்சதுஷ்பத₂: || 30. 250||
சதுரா ஶ்ரமவேத்தா ச சாதுர்வர்ண்யகரஶ்ச ஹ |
க்ஷராக்ஷரப்ரியோ தூ₄ர்த்தோ(அ)க₃ண்யோ(அ)க₃ண்யக₃ணாதி₄ப: || 30. 251||
ருத்₃ராக்ஷமால்யாம்ப₃ரத₄ரோ கி₃ரிகோ கி₃ரிகப்ரிய: |
ஶில்பீஶ: ஶில்பினாம்ʼ ஶ்ரேஷ்ட₂: ஸர்வஶில்பப்ரவர்த்தக: || 30. 252||
ப₄க₃னேத்ராந்தகஶ்சந்த்₃ர: பூஷ்ணோ த₃ந்தவினாஶன: |
கூ₃டா₄வர்த்தஶ்ச கூ₃ட₄ஶ்ச கூ₃ட₄ப்ரதிநிஷேவிதா || 30. 253||
தரணஸ்தாரகஶ்சைவ ஸர்வபூ₄தஸுதாரண: |
தா₄தா விதா₄தா ஸத்வானாம்ʼ நிதா₄தா தா₄ரணோ த₄ர: || 30. 254||
தபோ ப்₃ரஹ்ம ச ஸத்யஞ்ச ப்₃ரஹ்மசர்யமதா₂ர்ஜவம் |
பூ₄தாத்மா பூ₄தக்ருʼத்₃பூ₄தோ பூ₄தப₄வ்யப₄வோத்₃ப₄வ: || 30. 255||
பூ₄ர்பு₄வ:ஸ்வரிதஶ்சைவ ததோ₂த்பத்திர்மஹேஶ்வர: |
ஈஶானோ வீக்ஷண: ஶாந்தோ து₃ர்தா₃ந்தோ த₃ந்தனாஶன: || 30. 256||
ப்₃ரஹ்மாவர்த்த ஸுராவர்த்த காமாவர்த்த நமோ(அ)ஸ்து தே |
காமபி₃ம்ப₃னிஹர்த்தா ச கர்ணிகாரரஜ:ப்ரிய: || 30. 257||
முக₂சந்த்₃ரோ பீ₄மமுக₂: ஸுமுகோ₂ து₃ர்முகோ₂ முக₂: |
சதுர்முகோ₂ ப₃ஹுமுகோ₂ ரணே ஹ்யபி₄முக₂: ஸதா₃ || 30. 258||
ஹிரண்யக₃ர்ப₄: ஶகுனிர்மஹோத₃தி₄: பரோ விராட் |
அத₄ர்மஹா மஹாத₃ண்டோ₃ த₃ண்ட₃தா₄ரீ ரணப்ரிய: || 30. 259||
கோ₃தமோ கோ₃ப்ரதாரஶ்ச கோ₃வ்ருʼஷேஶ்வரவாஹன: |
த₄ர்மக்ருʼத்₃த₄ர்மஸ்ரஷ்டா ச த₄ர்மோ த₄ர்மவிது₃த்தம: || 30. 260||
த்ரைலோக்யகோ₃ப்தா கோ₃விந்தோ₃ மானதோ₃ மான ஏவ ச |
திஷ்ட₂ன் ஸ்தி₂ரஶ்ச ஸ்தா₂ணுஶ்ச நிஷ்கம்ப: கம்ப ஏவ ச || 30. 261||
து₃ர்வாரணோ து₃ர்விஷதோ₃ து₃:ஸஹோ து₃ரதிக்ரம: |
து₃ர்த்₃த₄ரோ து₃ஷ்ப்ரகம்பஶ்ச து₃ர்விதோ₃ து₃ர்ஜ்ஜயோ ஜய: || 30. 262||
ஶஶ: ஶஶாங்க: ஶமன: ஶீதோஷ்ணம்ʼ து₃ர்ஜரா(அ)த₂ த்ருʼட் |
ஆத₄யோ வ்யாத₄யஶ்சைவ வ்யாதி₄ஹா வ்யாதி₄க₃ஶ்ச ஹ || 30. 263||
ஸஹ்யோ யஜ்ஞோ ம்ருʼகா₃ வ்யாதா₄ வ்யாதீ₄னாமாகரோ(அ)கர: |
ஶிக₂ண்டீ₃ புண்ட₃ரீகாக்ஷ: புண்ட₃ரீகாவலோகன: || 30. 264||
த₃ண்ட₃த₄ர: ஸத₃ண்ட₃ஶ்ச த₃ண்ட₃முண்ட₃விபூ₄ஷித: |
விஷபோ(அ)ம்ருʼதபஶ்சைவ ஸுராப: க்ஷீரஸோமப: || 30. 265||
மது₄பஶ்சாஜ்யபஶ்சைவ ஸர்வபஶ்ச மஹாப₃ல: |
வ்ருʼஷாஶ்வவாஹ்யோ வ்ருʼஷப₄ஸ்ததா₂ வ்ருʼஷப₄லோசன: || 30. 266||
வ்ருʼஷப₄ஶ்சைவ விக்₂யாதோ லோகானாம்ʼ லோகஸத்க்ருʼத: |
சந்த்₃ராதி₃த்யௌ சக்ஷுஷீ தே ஹ்ருʼத₃யஞ்ச பிதாமஹ: |
அக்₃னிராபஸ்ததா₂ தே₃வோ த₄ர்மகர்மப்ரஸாதி₄த: || 30. 267||
ந ப்₃ரஹ்மா ந ச கோ₃விந்த₃: புராணருʼஷயோ ந ச |
மாஹாத்ம்யம்ʼ வேதி₃தும்ʼ ஶக்தா யாதா₂தத்₂யேன தே ஶிவ || 30. 268||
யா மூர்த்தய: ஸுஸூக்ஷ்மாஸ்தே ந மஹ்யம்ʼ யாந்தி த₃ர்ஶனம் |
தாபி₄ர்மாம்ʼ ஸததம்ʼ ரக்ஷ பிதா புத்ரமிவௌரஸம் || 30. 269||
ரக்ஷ மாம்ʼ ரக்ஷணீயோ(அ)ஹம்ʼ தவானக₄ நமோ(அ)ஸ்து தே ||
ப₄க்தானுகம்பீ ப₄க₃வான் ப₄க்தஶ்சாஹம்ʼ ஸதா₃ த்வயி || 30. 270||
ய: ஸஹஸ்ராண்யனேகானி பும்ʼஸாமாஹ்ருʼத்ய து₃ர்த்₃த₃ஶ: |
திஷ்ட₂த்யேக: ஸமுத்₃ராந்தே ஸ மே கோ₃ப்தாஸ்து நித்யஶ: || 30. 271||
யம்ʼ விநித்₃ரா ஜிதஶ்வாஸா: ஸத்த்வஸ்தா₂: ஸமத₃ர்ஶின: |
ஜ்யோதி: பஶ்யந்தி யுஞ்ஜானாஸ்தஸ்மை யோகா₃த்மனே நம: || 30. 272||
ஸம்ப₄க்ஷ்ய ஸர்வ பூ₄தானி யுகா₃ந்தே ஸமுபஸ்தி₂தே |
ய: ஶேதே ஜலமத்₄யஸ்த₂ஸ்தம்ʼ ப்ரபத்₃யே(அ)ப்ஸுஶாயினம் || 30. 273||
ப்ரவிஶ்ய வத₃னே ராஹோர்ய: ஸோமம்ʼ க்₃ரஸதே நிஶி |
க்₃ரஸத்யர்கஞ்ச ஸ்வர்பா₄னுர்பூ₄த்வா ஸோமாக்₃னிரேவ ச || 30. 274||
யே(அ)ங்கு₃ஷ்ட₂மாத்ரா: புருஷா தே₃ஹஸ்தா₂: ஸர்வதே₃ஹினாம் |
ரக்ஷந்து தே ஹி மாம்ʼ நித்யம்ʼ நித்யமாப்யாயயந்து மாம் || 30. 275||
யே சாப்யுத்பதிதா க₃ர்பா₄த₃தோ₄பா₄க₃க₃தாஶ்ச யே |
தேஷாம்ʼ ஸ்வாஹா: ஸ்வதா₄ஶ்சைவ ஆப்னுவந்து ஸ்வத₃ந்து ச || 30. 276||
யே ந ரோத₃ந்தி தே₃ஹஸ்தா₂: ப்ராணினோ ரோத₃யந்தி ச |
ஹர்ஷயந்தி ச ஹ்ருʼஷ்யந்தி நமஸ்தேப்₄யோ(அ)ஸ்து நித்யஶ: || 30. 277||
யே ஸமுத்₃ரே நதீ₃து₃ர்கே₃ பர்வதேஷு கு₃ஹாஸு ச |
வ்ருʼக்ஷமூலேஷு கோ₃ஷ்டே₂ஷு காந்தாரக₃ஹனேஷு ந || 30. 278||
சதுஷ்பதே₂ஷு ரத்₂யாஸு சத்வரேஷு ஸபா₄ஸு ச |
சந்த்₃ரார்கயோர்மத்₄யக₃தா யே ச சந்த்₃ரார்கரஶ்மிஷு || 30. 279||
ரஸாதலக₃தா யே ச யே ச தஸ்மாத்பரங்க₃தா: |
நமஸ்தேப்₄யோ நமஸ்தேப்₄யோ நமஸ்தேப்₄யஶ்ச நித்யஶ: |
ஸூக்ஷ்மா: ஸ்தூ₂லா: க்ருʼஶா ஹ்ரஸ்வா நமஸ்தேப்₄யஸ்து நித்யஶ: || 30. 280||
ஸர்வஸ்த்வம்ʼ ஸர்வகோ₃ தே₃வ ஸர்வபூ₄தபதிர்ப₄வான் |
ஸர்வபூ₄தாந்தராத்மா ச தேன த்வம்ʼ ந நிமந்த்ரித: || 30. 281||
த்வமேவ சேஜ்யஸே யஸ்மாத்₃-யஜ்ஞைர்-விவித₄-த₃க்ஷிணை: |
த்வமேவ கர்த்தா ஸர்வஸ்ய தேன த்வம்ʼ ந நிமந்த்ரித: || 30. 282||
அத₂ வா மாயயா தே₃வ மோஹித: ஸூக்ஷ்மயா த்வயா |
ஏதஸ்மாத் காரணாத்₃வாபி தேன த்வம்ʼ ந நிமந்த்ரித: || 30. 283||
ப்ரஸீத₃ மம தே₃வேஶ த்வமேவ ஶரணம்ʼ மம |
த்வம்ʼ க₃திஸ்த்வம்ʼ ப்ரதிஷ்டா₂ ச ந சான்யாஸ்தி ந மே க₃தி: || 30. 284||
ஸ்துத்வைவம்ʼ ஸ மஹாதே₃வம்ʼ விரராம ப்ரஜாபதி: |
ப₄க₃வானபி ஸுப்ரீத: புனர்த₃க்ஷமபா₄ஷத || 30. 285||
பரிதுஷ்டோ(அ)ஸ்மி தே த₃க்ஷ ஸ்தவேனானேன ஸுவ்ரத |
ப₃ஹுநாத்ர கிமுக்தேன மத்ஸமீபம்ʼ க₃மிஷ்யஸி || 30. 286||
அதை₂னமப்₃ரவீத்₃வாக்யம்ʼ த்ரைலோக்யாதி₄பதிர்ப₄வ: |
க்ருʼத்வாஶ்வாஸகரம்ʼ வாக்யம்ʼ வாக்யஜ்ஞோ வாக்யமாஹதம் || 30. 287||
த₃க்ஷ த₃க்ஷ ந கர்த்தவ்யோ மன்யுர்விக்₄னமிமம்ʼ ப்ரதி |
அஹம்ʼ யஜ்ஞஹா ந த்வன்யோ த்₃ருʼஶ்யதே தத்புரா த்வயா || 30. 288||
பூ₄யஶ்ச தம்ʼ வரமிமம்ʼ மத்தோ க்₃ருʼஹ்ணீஷ்வ ஸுவ்ரத |
ப்ரஸன்னவத₃னோ பூ₄த்வா த்வமேகாக்₃ரமனா: ஶ்ருʼணு || 30. 289||
அஶ்வமேத₄ஸஹஸ்ரஸ்ய வாஜபேயஶதஸ்ய ச |
ப்ரஜாபதே மத்ப்ரஸாதா₃த் ப₂லபா₄கீ₃ ப₄விஷ்யஸி || 30. 290||
வேதா₃ன் ஷட₃ங்கா₃னுத்₃த்₄ருʼத்ய ஸாங்க்₂யான்யோகா₃ம்ʼஶ்ச க்ருʼத்ஸ்னஶ: |
தபஶ்ச விபுலம்ʼ தப்த்வா து₃ஶ்சரம்ʼ தே₃வதா₃னவை: || 30. 291||
அர்தை₂ர்த்₃த₃ஶார்த்₃த₄ஸம்ʼயுக்தைர்கூ₃ட₄மப்ராஜ்ஞனிர்ம்மிதம் |
வர்ணாஶ்ரமக்ருʼதைர்த₄ர்மைம்ʼர்விபரீதம்ʼ க்வசித்ஸமம் || 30. 292||
ஶ்ருத்யர்தை₂ரத்₄யவஸிதம்ʼ பஶுபாஶவிமோக்ஷணம் |
ஸர்வேஷாமாஶ்ரமாணாந்து மயா பாஶுபதம்ʼ வ்ரதம் |
உத்பாதி₃தம்ʼ ஶுப₄ம்ʼ த₃க்ஷ ஸர்வபாபவிமோக்ஷணம் || 30. 293||
அஸ்ய சீர்ணஸ்ய யத்ஸம்யக் ப₂லம்ʼ ப₄வதி புஷ்கலம் |
தத₃ஸ்து தே மஹாபா₄க₃ மானஸஸ்த்யஜ்யதாம்ʼ ஜ்வர: || 30. 294||
ஏவமுக்த்வா மஹாதே₃வ: ஸபத்னீக: ஸஹானுக₃: |
அத₃ர்ஶனமனுப்ராப்தோ த₃க்ஷஸ்யாமிதவிக்ரம: || 30. 295||
அவாப்ய ச ததா₃ பா₄க₃ம்ʼ யதோ₂க்தம்ʼ ப்₃ரஹ்மணா ப₄வ: |
ஜ்வரஞ்ச ஸர்வத₄ர்மஜ்ஞோ ப₃ஹுதா₄ வ்யப₄ஜத்ததா₃ |
ஶாந்த்யர்த₂ம்ʼ ஸர்வபூ₄தானாம்ʼ ஶ்ருʼணுத்₄வம்ʼ தத்ர வை த்₃விஜா: || 30. 296||
ஶீர்ஷாபி₄தாபோ நாகா₃னாம்ʼ பர்வதானாம்ʼ ஶிலாருஜ: |
அபாந்து நாலிகாம்ʼ வித்₃யான்னிர்மோகம்பு₄ஜகே₃ஷ்வபி || 30. 297||
ஸ்வௌரக: ஸௌரபே₄யாணாமூஷர: ப்ருʼதி₂வீதலே |
இபா₄ நாமபி த₄ர்மஜ்ஞ த்₃ருʼஷ்டிப்ரத்யவரோத₄னம் || 30. 298||
ரந்த்₄ரோத்₃பூ₄தம்ʼ ததா₂ஶ்வானாம்ʼ ஶிகோ₂த்₃பே₄த₃ஶ்ச ப₃ர்ஹிணாம் |
நேத்ரரோக₃: கோகிலானாம்ʼ ஜ்வர: ப்ரோக்தோ மஹாத்மபி₄: || 30. 299||
அஜானாம்ʼ பித்தபே₄த₃ஶ்ச ஸர்வேஷாமிதி ந: ஶ்ருதம் |
ஶுகானாமபி ஸர்வேஷாம்ʼ ஹிமிகா ப்ரோச்யதே ஜ்வர: |
ஶார்தூ₃லேஷ்வபி வை விப்ரா: ஶ்ரமோ ஜ்வர இஹோச்யதே || 30. 300||
மானுஷேஷு து ஸர்வஜ்ஞ ஜ்வரோ நாமைஷ கீர்தித: |
மரணே ஜன்மனி ததா₂ மத்₄யே ச விஶதே ஸதா₃ || 30. 301||
ஏதன்மாஹேஶ்வரம்ʼ தேஜோ ஜ்வரோ நாம ஸுதா₃ருண: |
நமஸ்யஶ்சைவ மான்யஶ்ச ஸர்வப்ராணிபி₄ரீஶ்வர: || 30. 302||
இமாம்ʼ ஜ்வரோத்பத்திமதீ₃னமானஸ: படே₂த்ஸதா₃ ய: ஸுஸமாஹிதோ நர: |
விமுக்தரோக₃: ஸ நரோ முதா₃ யுதோ லபே₄த காமான் ஸ யதா₂மனீஷிதான் || 30. 303||
த₃க்ஷப்ரோக்தம்ʼ ஸ்தவஞ்சாபி கீர்த்தயேத்₃ய: ஶ்ருʼணோதி வா |
நாஶுப₄ம்ʼ ப்ராப்னுயாத் கிஞ்சித்₃தீ₃ர்க₄ஞ்சாயுரவாப்னுயாத் || 30. 304||
யதா₂ ஸர்வேஷு தே₃வேஷு வரிஷ்டோ₂ யோக₃வான் ஹர: |
ததா₂ ஸ்தவோ வரிஷ்டோ₂(அ)யம்ʼ ஸ்தவானாம்ʼ ப்₃ரஹ்மநிர்மித: || 30. 305||
யஶோராஜ்யஸுகை₂ஶ்வர்யவித்தாயுர்த₄னகாங்க்ஷிபி₄: |
ஸ்தோதவ்யோ ப₄க்திமாஸ்தா₂ய வித்₃யாகாமைஶ்ச யத்னத: || 30. 306||
வ்யாதி₄தோ து₃:கி₂தோ தீ₃னஶ்சௌரத்ரஸ்தோ ப₄யார்தி₃த: |
ராஜகார்யநியுக்தோ வா முச்யதே மஹதோ ப₄யாத் || 30. 307||
அனேன சைவ தே₃ஹேன க₃ணானாம்ʼ ஸ க₃ணாதி₄ப: |
இஹ லோகே ஸுக₂ம்ʼ ப்ராப்ய க₃ண ஏவோபபத்₃யதே || 30. 308||
ந ச யக்ஷா: பிஶாசா வா ந நாகா₃ ந வினாயகா: |
குர்யுர்விக்₄னம்ʼ க்₃ருʼஹே தஸ்ய யத்ர ஸம்ʼஸ்தூயதே ப₄வ: || 30. 309||
ஶ்ருʼணுயாத்₃வா இத₃ம்ʼ நாரீ ஸுப₄க்த்யா ப்₃ரஹ்மசாரிணீ |
பித்ருʼபி₄ர்ப₄ர்த்ருʼபக்ஷாப்₄யாம்ʼ பூஜ்யா ப₄வதி தே₃வவத் || 30. 310||
ஶ்ருʼணுயாத்₃வா இத₃ம்ʼ ஸர்வம்ʼ கீர்த்தயேத்₃வாப்யபீ₄க்ஷ்ணஶ: |
தஸ்ய ஸர்வாணி கார்யாணி ஸித்₃தி₄ம்ʼ க₃ச்ச₂ந்த்யவிக்₄னத: || 30. 311||
மனஸா சிந்திதம்ʼ யச்ச யச்ச வாசாப்யுதா₃ஹ்ருʼதம் |
ஸர்வம்ʼ ஸம்பத்₃யதே தஸ்ய ஸ்தவனஸ்யானுகீர்த்தனாத் || 30. 312||
தே₃வஸ்ய ஸகு₃ஹஸ்யாத₂ தே₃வ்யா நந்தீ₃ஶ்வரஸ்ய து |
ப₃லிம்ʼ விப₄வத: க்ருʼத்வா த₃மேன நியமேன ச || 30. 313||
தத: ஸ யுக்தோ க்₃ருʼஹ்ணீயான்னாமான்யாஶு யதா₂க்ரமம் |
ஈப்ஸிதான் லப₄தே(அ)த்யர்த₂ம்ʼ காமான் போ₄கா₃ம்ʼஶ்ச மானவ: |
ம்ருʼதஶ்ச ஸ்வர்க₃மாப்னோதி ஸ்த்ரீஸஹஸ்ர-பரிவ்ருʼத: || 30. 314||
ஸர்வ கர்மஸு யுக்தோ வா யுக்தோ வா ஸர்வபாதகை: |
பட₂ன் த₃க்ஷக்ருʼதம்ʼ ஸ்தோத்ரம்ʼ ஸர்வபாபை: ப்ரமுச்யதே |
ம்ருʼதஶ்ச க₃ணஸாலோக்யம்ʼ பூஜ்யமான: ஸுராஸுரை: || 30. 315||
வ்ருʼஷேவ விதி₄யுக்தேன விமானேன விராஜதே |
ஆபூ₄தஸம்ப்லவஸ்தா₂யீ ருத்₃ரஸ்யானுசரோ ப₄வேத் || 30. 316||
இத்யாஹ ப₄க₃வான் வ்யாஸ: பராஶரஸுத: ப்ரபு₄: |
நைதத்₃வேத₃யதே கஶ்சின்னேத₃ம்ʼ ஶ்ராவ்யந்து கஸ்யசித் || 30. 317||
ஶ்ருத்வைதத்பரமம்ʼ கு₃ஹ்யம்ʼ யே(அ)பி ஸ்யு: பாபகாரிண: |
வைஶ்யா: ஸ்த்ரியஶ்ச ஶூத்₃ராஶ்ச ருத்₃ரலோகமவாப்னுயு: || 30. 318||
ஶ்ராவயேத்₃யஸ்து விப்ரேப்₄ய: ஸதா₃ பர்வஸு பர்வஸு |
ருத்₃ரலோகமவாப்னோதி த்₃விஜோ வை நாத்ர ஸம்ʼஶய: || 30. 319||
இதி ஶ்ரீமஹாபுராணே வாயுப்ரோக்தே த₃க்ஷஶாபவர்ணனம்ʼ நாம த்ரிம்ʼஶோ(அ)த்₄யாய: || 30||
Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com.
Also available at http://sa.wikisource.org Vayupurana Adhyaya 30.
starting at verse 180. This shivasahasranAma stotra is referencedi n Purana Index for sahasranAmastotra.
Proofread NA. [Courtesy: www.sanskritdocuments.org]